क्षमाप्रार्थना स्तोत्रम्

ॐ यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत्

तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तुते ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च

न्यूनानि चातिरिक्तानि क्षमस्व नारायण ॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया

दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम

तस्मात् कारुण्यभावेन रक्ष रक्ष जगदीश्वरि ॥

हरिः ॐ तत्सत् श्रीमन्नारायणार्पणमस्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

सर्वं श्रीजगदम्बार्पणमस्तु ॥

श्रीगुरुभ्यो नमः

श्रीगुरुचरणकमलेभ्यो नमः ॥